श्रीराजराजेश्वरी मन्त्रमातृकास्तवः

श्रीराजराजेश्वरीतर्पणस्तोत्रम् (विद्यार्चनपद्धतौ) ॐ श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् । सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १॥ एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीं चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् । भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २॥ ईहाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां परां (ईशाधीश्वरयोगि) पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् । आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३॥ लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् । भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४॥ ह्रींबीजागतनादबिन्दुभरितामोङ्कारनादात्मिकां ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् । ज्ञानेच्छाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५॥ हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णितां (?) हुंकारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् । सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६॥ सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् । सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं (सर्वान्तरगत) श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७॥ कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् । पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्वितां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८॥ हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानतां हाराद्याभरणां सुरेन्द्रविनुतां श‍ृङ्गारपीठालयाम् । योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९॥ लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थितां लाक्षारञ्चितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् । (रञ्जित) लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थितां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १०॥ ह्रींकाराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीं माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् । तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभितां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११॥ सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् । सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२॥ कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभितां नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् । चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३॥ लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठाश्रितां सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् । गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४॥ ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् । (वामाराध्यपदाम्बुजां) कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५॥ या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी याब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी । या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६॥ इति श्रीशाक्तमतसिद्धान्तसंस्थापनवामाचारपरमाचर्यवर्य- वावदूकविद्वच्छङ्करानन्दविराजितः श्रीराजराजेश्वरीमातृकामन्त्रस्तवः सम्पूर्णः ॥

Comments

Popular posts from this blog

Unveiling Inner Peace: Your Guide to Exploring Kriya Yoga

Demystifying Your Digital Defenders: Top Cybersecurity Apps & Cloud Solutions

Exploring the Frontiers of Innovation: Top Tech Trends Shaping the Future